271

व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमात्तर्हि नियमो भविष्यतीत्याह—व्यङ्ग्येत्यादि ।


व्यङ्ग्यव्यञ्जकसामर्थ्यभेदोऽपि समवायतः ।

नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः ॥ ८५१ ॥

द्रव्यत्वादिसामान्यव्यञ्जकत्वं द्रव्यादीनां यदुच्यते तत्समवायबलादेव । तथाहि
—यस एव द्रव्यत्वं द्रव्ये समवेतं तत एव तेन तद्व्यज्यत इत्युच्यते । अन्यत इति । सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात् । यस्मान्नित्यानामपि
सत्तादीनां समवाय इष्टः, न च नित्यानामुत्पत्तिर्युक्ता ॥ ८५१ ॥


एतदेव न हीत्यादिना समर्थयते ।


नहि दीपादिसद्भावाज्जायन्ते यादृशा इमे ।

विज्ञानजनने योग्या घटाद्या जातयस्तथा ॥ ८५२ ॥

यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः, सोऽप्यस्माकमसिद्ध इति दर्शयति—
कुण्डदध्नोरित्यादि ।


कुण्डदध्नोश्च संयोग एकः पूर्वं निराकृतः ।

न चासौ नियतस्तस्माद्युज्यते(तिप्रसङ्ग्तः) ॥ ८५३ ॥

पूर्वमिति । संयोगपदार्थदूषणे । भवतु नाम संयोग एकः, तत्रापि तुल्य एव
प्रसङ्ग इति दर्शयति—न चासावित्यादि । तस्मादिति । संयोगात् । दध्नि कुण्डमि
त्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः । संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ॥ ८५३ ॥


यच्चोक्तं कारणानुपलब्धेर्नित्यः समवाय इति तत्राह—नित्यत्वेनेत्यादि ।


नित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ताः (घटादयः) ।

आधारेषु सदा तेषां समवायो न संस्थितेः ॥ ८५४ ॥

यदि हि समवायो नित्यः स्यात्तदा घटादीनामपि नित्यत्वप्रसङ्गः, स्वाधारेषु तेषां
सर्वदाऽवस्थानात् । तथाहि—समवायास्तित्वादेवैषां स्वाधारेष्ववस्थानमिष्यते, स च
समवायो नित्य इति किमिति सदाऽमी न संतिष्ठेरन् ॥ ८५४ ॥


स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते ।


स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः ।

ते नश्यन्ति क्रियाद्या (दीव) योगादेरिति चेन्न तत् ॥ ८५५ ॥

स्वाधारैस्समवायो हि तेषामपि सदा मतः ।

तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५६ ॥