स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते ।


स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः ।

ते नश्यन्ति क्रियाद्या (दीव) योगादेरिति चेन्न तत् ॥ ८५५ ॥

स्वाधारैस्समवायो हि तेषामपि सदा मतः ।

तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५६ ॥

272

स्यादेतत्—घटादीनां ये स्वारम्भकावयवास्तेषां विभागाद्विनाशाद्वा घटादीनां
विनाशः । यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्द्रव्यसंयोगादिभ्यो विन
श्यन्ति । यथोक्तम्—स्पर्शवद्द्रव्यसंयोगात्कर्मणो नाशः कार्यविरोधि च कर्मेति ।
तथा बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया । तेन सत्यपि सम
वायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच्च न नित्यत्वप्र
सङ्गो घटादीनामिति परस्य भावः । न तदित्यादिना प्रतिषेधति । नैतद्युक्तं, यतस्ते
षामपि स्वारम्भकावयवानां कपालादीनां स्वारम्भकेष्ववयवान्तरेषु समवायः सर्वदा
ऽस्त्येवेति कुतो विनाशो विभागो वा । न केवलं तदारब्धानां द्रव्याणां क्रियादीनां
चेत्यपिशब्देन दर्शयति । यदि तु स्वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत,
तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति ॥ ८५५ ॥ ८५६ ॥