एतदेव दर्शयन्नाह—अनपेक्षत्वमेवैकमित्यादि ।


अनपेक्षत्वमेवैकं प्रामाण्यस्य निबन्धनम् ।

तदेव हि विनाश्येत सापेक्षत्वे समाश्रिते ॥ २८१४ ॥

प्रामाण्यस्तेति । प्रामाण्यव्यवस्थानस्य । तदेव हीति । प्रामाण्यम् । व्यापक
निवृत्तौ व्याप्यस्यानवस्थानात् ॥ २८१४ ॥