017 धि स्यादुतस्विद्दधीति । एवं सङ्कल्पवृत्ति मन इति । तदेवं बुद्ध्यहङ्कारमनसां परस्परं
विशेषो बोद्धव्यः । शेषं सुबोधम् । एते च महदादयः प्रधानपुरुषौ चेति पञ्चविं
शतिरेषां तत्त्वानि । यथोक्तम्— पञ्चविंशतितत्त्वज्ञो यत्र यत्राश्रमे रतः । जटी
मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः ॥
इति । एते यथोक्ताः कार्यभेदाः प्रधा
नात्प्रवर्त्तमाना न बौद्धाद्यभिमता इव कार्यभेदाः कारणादत्यन्तभेदिनो भवन्ति, किंतु
तद्रूपा एव—तत्—प्रधानम् रूपम्—आत्मा येषामिति विग्रहः । त्रैगुण्यादिरूपेण
प्रकृत्यात्मभूता एवेति । तथाहि—लोके यदात्मकं कारणं भवति तदात्मकमेव कार्य
मुपलभ्यते । यथा कृष्णैस्तन्तुभिरारब्धः पटः कृष्णो भवति शुक्लैस्तु शुक्लः । एवं
प्रधानमपि त्रिगुणात्मकम्, तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि त्रिगु
णमुपलभ्यते तस्मात्तद्रूपम् । किंच—अविवेकि । तथाहीमे सत्त्वादयः इदं च मह
दादि व्यक्तमिति पृथङ्न् शक्यते कर्तुम् । किंतु ये गुणास्तद्व्यक्तं यद्व्यक्तं ते गुणा
इति । किंच—द्वयमपि व्यक्तमव्यक्तं च विषयः । भोग्यस्वभावत्वात् । सामान्यं च
सर्वपुरुषाणाम् । भोग्यत्वात् । मल्लदासीवत् । अचेतनात्मकं च । सुखदुःखमोहावेद
कत्वात् । प्रसवधर्मि च । तथाहि—प्रधानं बुद्धिं जनयति, बुद्धिरप्यहङ्कारम्, अह
ङ्कारोऽपि तन्मात्राणीन्द्रियाणि चैकादश, तन्मात्राणि महाभूतानि जनयन्तीति ।
तस्मात्रैगुण्यादिरूपेण तद्रूपा एवामी कार्यभेदाः प्रवर्त्तन्ते । यथोक्तम्— त्रिगुणम
विवेकिविषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च
पुमान् ॥
इति । ननु यदि तद्रूपा एव कार्यभेदास्तत्कथं शास्त्रे व्यक्ताव्यक्तयोर्वैलक्ष
ण्यमुपवर्णितम् । तथाहीश्वरकृष्णोक्तम्— हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं
लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥
इति । तत्र ह्ययमर्थः हेतु
मत्—कारणवत्, व्यक्तमेव । तथाहि—प्रधानेन हेतुमती बुद्धिः, अहङ्कारो बुद्ध्या
हेतुमान्, पञ्चतन्मात्राण्येकादशेन्द्रियाण्यहङ्कारेण हेतुमन्ति, भूतानि तन्मात्रैः ।
नत्वेवमव्यक्तम् । तस्य कुतश्चिदप्यनुत्पत्तेः । तथा व्यक्तमनित्यम्, उत्पत्तिधर्मकत्वात् ।
नत्वेवमव्यक्तम्, तस्यानुत्पत्तिमत्त्वात् । यथा च प्रधानपुरुषौ दिवि भुवि चान्तरिक्षे
च सर्वत्र व्यापितया वर्त्तेते न तथा व्यक्तं वर्त्तते, किंतु तदव्यापि । यथा च संसा
रकाले त्रयोदशविधेन बुद्ध्यहङ्कारेन्द्रियलक्षणेन शरीरेण करणेन संयुक्तं सूक्ष्मशरी
राश्रितं व्यक्तं संसरति नत्वेवमव्यक्तम्, तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यह
ङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते, नाव्यक्तम्, तस्यैकस्यैव सतो लोकत्रय