द्रव्यपदार्थपरीक्षा ।

इदानीं गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः । शून्यमित्येतत्समर्थनार्थं षट्प
दार्थपरीक्षोपक्षेपं कुर्वन्नाह—जात्यादेरित्यादि ।


जात्यादेर्निःस्वभावत्वमयुक्तं प्राक्प्रकाशितम् ।

द्रव्यादयः षडर्था ये विद्यन्ते पारमार्थिकाः ॥ ५४७ ॥

इत्याक्षपादकाणादाः प्राहुरागममात्रकाः ।

द्रव्यादिप्रतिषेधोऽयं सङ्क्षेपेण तदुच्यते ॥ ५४८ ॥

प्राक् स्थिरभावपरीक्षायां जात्यादेर्निःस्वभावत्वान्नैवेष्टा क्षणभङ्गिते त्यनेन यज्जा
त्यादेः निःस्वभावत्वं प्राक्प्रकाशितं तदयुक्तम् । यतो द्रव्यगुणकर्मसामान्यविशेषस
मावायाख्याः षट् पदार्थाः पारमार्थिकाः सन्तीत्याहुराक्षपादादयः । अक्षपादशिष्यत्वा
दाक्षपादा नैयायिकाः । कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्तै । आगममा
त्रका
इति । आगममात्रमपेतयुक्तिकमेषामस्तीत्यागममात्रकाः ॥ ५४७ ॥ ५४८ ॥