गुणपदार्थपरीक्षा ।

गुणादीनां निषेधमाह—द्रव्याणामित्यादि ।


द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः ।

गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः ॥ ६३४ ॥

गुणकर्मादयो विशेषपर्यन्ता द्रव्याणां प्रतिषेधादेवापास्ताः, तदाश्रितत्वादेषाम् ।
आश्रयाभावे चाश्रितानां परतन्त्रतयाऽवस्थानुपपत्तेः । तथा मता इति । तथा सा
क्षात्पारम्पर्येण वा द्रव्याश्रितत्वेनेष्टाः । तथाहि—गुणकर्मणी साक्षादेव द्रव्याश्रित
त्वेनाभीष्टे । तथा च सूत्रम् । द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्ष
णम् । एकद्रव्यमिति । एकद्रव्याश्रितमित्यर्थः । गुणास्तु केचिदनेकद्रव्यवर्त्तिनो भ
वन्ति, यथा—संयोगविभागादयः । सामान्यविशेषाश्च केचिद्द्रव्यवृत्तय एव, यथा
—पृथिवीत्वादयः । गुणत्वकर्मत्वादयश्च द्रव्यसंबद्धगुणकर्मपदार्थवृत्तयः, महासा
मान्यं तु सत्ताख्यं द्रव्यादिपदार्थत्रयवृत्ति । तस्माद्द्रव्ये प्रतिषिद्धे सत्ययत्नेनैव गु
णादयोऽपि निषिद्धा भवन्तीति । परिशिष्टपदार्थपरीक्षाफलं द्रव्यपरीक्षायामेव समा
प्तमिति दर्शितं भवति ॥ ६३४ ॥