262 द्धधर्माध्यासात् । न ह्यन्योन्यप्रत्यनीकग्रहणाग्रहणधर्माध्यासितमपि सदेकमिति युक्त
मभिधातुं स्वच्छचेतसः, अतिप्रसङ्गात् । एवं हि विश्वमेकमेव द्रव्यं स्यात्, ततश्च
सहोत्पादविनाशादिप्रसङ्गः, अन्यथैकमिति नाममात्रमेव स्यात्, नच नाम्नि विवादः
॥ ८०९ ॥
तदेवं सर्वप्रकारेण जातिमभिदूष्य प्रयोगं रचयन्नाह—नान्येत्यादि ।
ये क्रमित्वानुगामित्ववस्तुत्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते परपरिकल्पितनित्यैकसर्वग
तसामान्यतो न भवन्ति, यथा पाचकादिप्रत्ययाः, तथाचामी वृक्षादिप्रत्यया इति
विरुद्धव्याप्तोपलब्धिः । नित्यताभावविरुद्धानित्यताभावेन क्रमित्वादेर्व्याप्तत्वात् । नि
त्यस्य च क्रमाक्रमाभ्यामर्थक्रियाविरोधान्नानैकान्तिकता हेतोः । दृष्टान्तस्य च साध्या
विकलतायाः पूर्वं विस्तरेण प्रसाधितत्वान्नासिद्धो दृष्टान्तः । बाधकान्तरमप्याह-सं
योगेत्यादि । तत्र संयोगदूषणे बाधकमुक्तम्, एकस्यानेकवृत्तिश्च न युक्तेति प्रबा
धकमित्यनेन । यथाचानेकत्रैकस्य वृत्तिर्न युक्ता, तथाऽवयविदूषणे तद्ध्येकवृत्ति
भाजेत्यादिना प्रदर्शिता ॥ ८१० ॥ ८११ ॥
एवमित्यादिनोपसंहरति ।
यैर्वैशेषिकादिभिर्व्यक्तितो जातिरेकान्तभिन्नेष्टा तेषामिदं दूषणमुक्तम् । ये पुनर
भिन्नामुभयरूपां च जातिमिच्छन्ति जैनजैमिनीयसाङ्ख्यादयः, तदुपवर्णिता जातिः
प्रस्तावात्स्याद्वादे निषेत्स्यते । इह तु वैशेषिकनैयायिकोपकल्पिताया जातेः प्रस्तुतत्वान्न
दूष्यते प्रस्तावाभावादिति भावः ॥ ८१२ ॥