66

भावार्थः--The Hindi commentary was not digitized.

द्राक्षादिवृक्षफलशाकगुण ।

द्राक्षामोचमधूककाश्मरिलसत्खर्जूरिशृंगाटक ।
प्रस्पष्टोज्वलनालिकेरपनसप्रख्यातहिंताल सत्-
तालादिद्रुमजानिकानि गुरुकाण्युदृप्तशुक्राकरा-
ण्यत्यंतं कफवर्द्धनानि सहसा तालं फलं पित्तकृत् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

तालादिशाकगुण ।

तालादिद्रुमकेतकीप्रभृतिषु श्लष्मापहं मस्तकं ।
स्थूणीकं तिलकल्कमप्यभिहितं पिण्याकशाकानि च ।
शुष्काण्यत्र कफापहान्यनुदिनं रूक्षाणि वृक्षोद्भवा-
न्यस्थीनि प्रबलानि तानि सततं सांग्राहिकाणि स्फुटं ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

उपसंहार ।

शाकान्येतानि साक्षादनुगुणसहितान्यत्रलोकप्रतीता-
न्युक्तान्यस्माद्द्रवाणां प्रवचनमिहसंक्षेपतस्संविधानैः ।
अत्रादौ तोयमेव प्रकटयितुमतः प्रक्रमः प्राणिनां हि ।
प्राणं बाह्यं द्रवाणांमपि परममहाकारणं स्वप्रधानम् ॥ ४७ ॥