81

अनुपानविधानका उपसंहार

केषांचिन्मधुरे भवत्यतितराकांक्षाम्लसंसेवना--।
दम्लेवान्यतरातिसेवनतया वांछा भवेदादरात् ॥
यद्यद्यस्य हितं यदेव रुचिकृद्यद्यस्य सात्म्यादिकं ।
तत्तत्सर्वमिहानुपानविधिना योज्यं भिषग्भिस्सदा ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

भोजन के पश्चात् विधेय विधि ।

पश्चाद्धौतकरौ प्रमथ्य सलिलं दद्यात्सुचक्षुप्रदं ।
प्रोद्यद्दृष्टिकरं विरूपविविधव्याधिप्रणाशावहं ॥
वक्त्रं पद्मसमं भवेत्प्रतिदिनं तेनैव संरक्षितं ।
वक्त्रव्यगंतिलातिकालकमलानीलीप्रणाशावहम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

तत्पश्चाद्विधेय विधि ।

भुक्त्वाचम्य कषायतिक्तकटुकैः श्लेष्माणमुग्रं नुदेत् ।
किंचिद्गर्वितवत्स्थितः पदशतं संक्रम्य शय्यातले ॥
वामं पार्श्वमथ प्रपीडय शनकैः पूर्वं शयीत क्षणं ।
व्यायामादिविवर्जितो द्रवतरासेवी निषण्णो भवेत् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

25
  1. --भुक्ते राजवत् आसीत ।