84

तैलाभ्यंग गुण ।

दद्यात्तैलं मस्तके स्वस्थकाले ।
कुर्यादेतत्तर्पणं चेंद्रियाणाम् ।
केशानां वा मार्दवं हि प्रशांतं ।
रोगान्सर्वान्नाशयेत्त्वग्गतांश्च ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

तैलघृताभ्यंग गुण ।

तैलाम्यंगश्लेष्मवातप्रणाशी ।
पित्तं रक्तं नाशयेद्वा घृतस्य ॥
देहं सर्वं तर्पयेद्रोमकूपै--
र्वैवर्ण्यादिख्यातरोगापकर्षी ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

अभ्यंगकेलिये अयोग्य व्यक्ति ।

मूर्च्छाक्रांतोऽजीर्णभक्तः पिपासी ।
पानाक्रांतो रेचकी क्षीणगात्रः ॥
तं चाभ्यंगं वर्जयेत्सर्वकालं ।
सद्योगर्भे दाहयुक्तज्वरे वा ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यायाम गुण ।

दीप्ताग्नित्वं व्याधिनिर्मुक्तगात्रं ।
निद्रा तंद्रास्थौल्यनिर्नाशनं च ॥
कुर्यात्कांतिं पुष्टिमारोग्यमायु--।
र्व्यायामोऽयं यौवनं देहदाद्र्यम् ॥ ७ ॥