99

ब्राम्ह्यादि रसायन ।

ब्राह्मीं मंडूकपर्णीमधिकतरवचाशर्कराक्षीरसर्पि--।
मिंश्रां संख्याक्रमेण प्रतिदिनममलस्सेवमानो मनुष्यः ॥
रोगान्सर्वान्निहंति प्रकटतरबलो रूपलावण्ययुक्तो ।
जीवेत्संवत्सराणां शतमिह सकलग्रंथतत्वार्थवेदी ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

वज्रादि रसायन ।

वज्री गोक्षुरवृद्धदारुकशतावर्यश्च गंधाग्निका ।
वर्षाभूसपुनर्नवामृतकुमारीत्युक्तदिव्यौषधीन् ॥
हृत्वा चूर्णितमक्षमात्रमखिलं प्रत्येकशं वा पिबन् ।
नित्यं क्षीरयुतं भविष्यति नरश्चंद्रार्कतेजोऽधिकः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

रसायन सेवन करनेका नियम ।

मद्यं मासं कषायं कटुकलवणसक्षाररूक्षाम्लवर्गं ।
त्यक्त्वा सत्यव्रतस्सन् सकलतनुभृतां सद्दयाव्याततात्मा ॥
क्रोधायासव्यवायातपपवनविरुद्धाशनाजीर्णहीनः ।
शश्वत्सर्वज्ञभक्तो मुनिगणवृषभान्पूजयेदौषदार्थी ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.