96

वृष्य विडंग व यष्टिचूर्ण ।

वैडंगं वा चूर्णमत्यंतसूक्ष्मं ।
तद्वद्यष्टीशर्कराचूर्णयुक्तम् ॥
नित्यं प्रातस्सेवमानो मनुष्य--।
श्शीतं तोयं चानुपानं दधानः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

रसायनके अनुपान ।

तेषामेव क्वाथसंयुक्तमेत--
द्भल्लातक्या वा गुडूच्यास्तथैव ॥
द्राक्षाक्वाथेनाथवा त्रैफलेन ।
प्रायेणैते भेषजस्योपयोग्याः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

रसायनसेवनमें पथ्याहार ।

एतत्पीत्वा जीर्णकाले यथावत् ।
क्षीरेणान्नं सर्पिषा मुद्गयूषैः ।
सामुद्राद्यैर्वर्जितं प्राज्यरोगान् ।
जित्वा जीवेन्निर्जरो निर्वलीकः ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.