104

अथ सप्तम परिच्छेदः ।

अथ चिकित्सासूत्राधिकार ।

मंगलाचरण व प्रतिज्ञा ।

जिनेंद्रमानंदितसर्वसत्वं ।
जरारुजामृत्युविनाशहेतुं ॥
प्रणम्य वक्ष्यामि यथानुपूर्वं ।
चिकित्सितं सिद्धमहाप्रयोगैः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

पुरुष निरूपण प्रतिज्ञा ।

चिकित्सितस्याति महागुणस्य ।
य एवमाधारतया प्रतीतः ॥
स एव सम्यक्पुरुषाभिधानो ।
निगद्यते चारुविचारमार्गैः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

आत्मस्वरूप विवेचन ।

अनादिबद्धस्स कथंचिदात्मा ।
स्वकर्मनिर्मापितदेहयोगात् ॥
अमूर्तमूर्तत्वनिजस्वभाव--।
स्स एव जानाति स पश्यतीह ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.