112

भावार्थः--The Hindi commentary was not digitized.

सर्वात्मना धर्मपरो नरस्स्या--।
त्तमाशु सर्वं समुपैति सौख्यम् ॥
पापोदयात्ते प्रभवंति रोगा--।
धर्माच्च पापाः प्रतिपक्षभावात् ॥ २९ ॥
नश्यंति, सर्वे प्रतिपक्षयोगा--।
द्विनाशमायांति किमत्रचित्रम् ॥

भावार्थः--The Hindi commentary was not digitized.

रोगोपशमनार्थ, बाह्याभ्यतंर चिकित्सा

धर्मस्तथाभ्यतंरकारणं स्या--।
द्रोगप्रशांत्यै सहकारिपूरम् ॥
बाह्यं विधानं प्रतिपद्यतेऽत्र ।
चिकित्सितं सर्वमिहोभयात्म ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

बाह्यचिकित्सा ।

द्रव्यं तथा क्षेत्रमिहापि कालं ।
भावं समाश्रित्य नरस्सुखी स्यात् ॥
स्नेहादिभिर्वा सुविशेषयुक्तम् ।
छेद्यादिभिर्वा निगृहीतदेहः ॥ ३१ ॥
27

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा प्रशंसा ।

चिकित्सितं पापविनाशनार्थं ।
चिकित्सितं धर्मविवृद्धये च ॥
चिकित्सितं चोभयलोकसाधनं ।
चिकित्सितान्नास्ति परं तपश्च ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा के उद्देश

तस्माच्चिकित्सा न च काममोहा--।
न्नचार्थलोभान्नच मित्ररागात् ॥
न शत्रुरोषान्नच बंधुबुध्या ।
न चान्य+इत्यन्यमनोविकारात् ॥ ३३ ॥
नचैव सत्कारनिमित्ततो वा ।
नचात्मनस्सद्यशसे विधेयम् ॥
कारुण्यबुध्या परलोकहेतो ।
कर्मक्षयार्थं विदधीत विद्वान् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

निरीह चिकित्साका फल ।

एवं कृता सर्वफलप्रसिद्धिं ।
स्वयं विदध्यादिह सा चिकित्सा ॥
  1. इस श्लोकके दो मूलप्रतियों को टटोलनेपर मी दो ही चरण उपलब्ध हु