वस्ति के लि+ए औषधि ।

सतैलघृतदुग्धतक्रदधिकांजिकाम्लद्रवै--।
स्त्रिवृन्मदनचित्रबीजकविपक्वमूत्रैस्समम् ॥
खजाप्रमथितैशृतैस्सह विमिश्रितैः कल्कितै--।
र्महौषधमरीचमागधिकसैंधवोग्रान्वितैः ॥ ५१ ॥
सदेवतरुकुष्टहिंगुबिडजीरकैलात्रिवृ--।
द्यवान्यतिविषासयष्टिसितसर्षपैस्सर्षपैः ।
सुपिष्टवरभेषजैः पलचतुर्थभागांशकै ॥
विलोड्य मथितं कदुष्णमिह सेचयेद्बस्तिषु ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.