145

अनुवास के पश्चाद्विधेय विधि ।

स्वदक्षिणकरं निपीड्य शयने सुखं संविशेत् ।
स्वमेवमिति तं वदेन्मलविनिर्गमाकांक्षया ॥
ततोऽनिलपुरीषमिश्रघृततैलयोर्वागमात् ।
प्रशस्तमनुवासनं प्रतिवदन्ति तद्वेदिनः ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुवासनका शीघ्र विनिर्गमनकारण व उसाका उपाय ।

पुरीषबहुलान्मरुत्प्रबलतातिरूक्षादपि ।
स्वयं घृतसुतैलयोरतिकनिष्ठमात्रान्वितात् ॥
स च प्रतिनिवर्तते घृतमथापि तैलं पुन--।
स्ततश्च शतपुष्पसैंधवयुतं नियोज्यं सदा ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

अनुवासनबस्ति की संख्या ।

तृतीयदिवसात्पुनः पुनरपीह संयोजये--।
द्यथोक्तमनुवासनं त्रिकचतुष्कषष्ठाष्टमान् ॥
शरीरबलदोषविद्विविधवेदनानिग्रहं ।
निरूहमपि योजयेत्तदनुवासमध्ये पुनः ॥ ६१ ॥

अर्थः--The Hindi commentary was not digitized.