124

भावार्थः--The Hindi commentary was not digitized.

उदानवायु ।

शिरोगत इहाप्युदान इति विश्रुतस्सर्वदा ।
प्रवर्तयति गीतभाषितविशेषहास्यादिकान् ॥
करोति निभृतोर्ध्वजत्रुगतरोगदुःखाकुलं ।
पुमांसमनिलस्ततः प्रकुपितस्स्वयं कारणैः ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

समानवायु ।

समान इति योऽनिलोऽग्निसख उच्यते सर्वदा ।
वसत्युदर एव भोजनगणस्य संपाचकः ॥
करोति विपरीततामुपगतस्स्वयं प्राणिना--।
मनग्निमतिसारमंत्ररुजमुग्रगुल्मादिकान् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

अपानवायु ।

अपान इति योऽनिलो वसति वस्तिपक्वाशये ।
स वात मलमूत्रशुक्रनिखिलोरुगर्भार्तवम् ॥
स्वकालवशतो विनिर्गमयति स्वयं कोपतः ।
करोति गुदवस्तिसंस्थितमहास्वरूपामयान् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.