134

भावार्थः--The Hindi commentary was not digitized.

स्नेहन के लिये अपात्र ।

अरोचकनवज्वरान् हृदयगर्भमूर्च्छामद--।
भ्रमक्लमकृशानसुरापरिगतानथोद्गारिणः ॥
अजीर्णपरिपीडितानधिकशुद्धदेहान्नरान् ।
सबस्तिकृतकर्मणो न घृतमेतदापाययेत् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदन का फल ।

अथाग्निरभिवर्द्धते मुदुतरं सुवर्णोज्वलं ।
शरीरमशने रुचिं निभृतगात्रचेष्टामपि ॥
लघुत्वपवनानुलोम्य मलमूत्रवृत्तिक्रमान् ।
करोति तनुतापनं सततदुष्टनिद्रापहम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वेदनके लिये अपात्र ।

क्षतोष्मपरिपीडितांस्तृषितपाण्डुमेहातुरा--।
नुपोषितनरातिसारबहुरक्तपित्तातुरान् ॥
जलोदरविषार्तमूर्छितनरार्भकान् गर्भिणीं ।
स्वयं प्रकृतिपित्तरक्तगुणमत्र न स्वेदयेत् ॥ ३२ ॥