167
स्रोतावरोधनमिहाल्परुगक्षिपात ।
छर्दिप्रसेकधवलाक्षिमलाननत्वम् ॥ ५७ ॥
अत्यंगसादनविपाकविहीनताति--।
कासातिपीनसकफोद्गमकण्ठकण्डूः ॥
श्लेष्मज्वरे प्रकटितानि च लक्षणानि ।
सर्वाणि सर्वजमहाज्वरसंभवानि ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

द्बंद्वजज्वर लक्षण ।

दोषद्वयेरितसुलक्षणलक्षितं त--।
द्दोषद्वयोद्भवमिति ज्वरमाहुरत्र--॥
दोषप्रकोपशमनादिह शीतदाहा--।
वाद्यं तयोर्विनिमयेन भविष्यतस्तौ ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपात ज्वरका असाध्य लक्षण ।

सर्वज्वरेषु कथिताखिललक्षणं तं ।
सर्वैरुपद्रवगणैरपि संप्रयुक्तम् ॥
हीनस्वरं विकृतलोचनमुच्छ्वसंतं ।
भूमौ प्रलापसहितं सततं पतन्तम् ॥ ६० ॥
यस्ताम्यति स्वपिति शीतलगात्रयष्टि--।
रंतर्विदाहसहितः स्मरणादपेतः ॥