157
स्तन्येय दाडिमरसो निचुलस्य वापि ।
घ्राणागतं घृतमथापि च पूर्वमुक्तं ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

ऊर्ध्वाधःप्रवृत्तरक्तपित्तकी चिकित्सा ।

उर्ध्वं विरेचनमयैर्वमनौषधैश्च ।
तीव्रास्रपित्तमिहसाध्यमधःप्रयातम् ॥
शीतैः सुसंशमनभेषजसंप्रयोगैः ।
रक्तं जयेद्युगपदूर्ध्वमधःप्रवृत्तम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तपित्तनाशकबस्तिक्षीर ।

आस्थापनं च महिषीपयसा विधेय--।
माज्येन सम्यगनुवासनमत्र कुर्यात् ॥
नीलोत्पलांबुजसुकेसरचूर्णयुक्तं ।
क्षीरं पिबेच्छिशिरमिक्षुरसेन सार्धम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तपित्तीको पथ्य

क्षीरं घृतं शिशिरमिक्षरसान्नपानं ।
पित्तामयेषु विदधीत सतीनयूषः ॥
मुद्गान्गुडप्रमुदितान्दधिमाहिषं वा ।
मत्स्याक्षिशाकमथवा घतमेघनादम् ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.