181

अथ दशमः परिच्छेदः

कफरोगाधिकारः ।

श्लेष्मरोगाभिधानप्रतिज्ञा ।

मंगलाचरण ।

जीवाजीवाद्यशेषं विधिवदभिहितं येन तद्भेदभिन्नं ।
ध्रौव्योत्पादव्ययात्माप्रकटपरिणतिप्राप्तमेतत्क्षणेस्मिन् ॥
तं देवेंद्राभिवंद्यं जिनपतिमजितं प्राप्तसत्प्रातिहार्यं ।
नत्वा श्लेष्मामयानामनुगतमखिलं संविधास्ये विधानम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रकुपितकफका लक्षण ।

स्तब्धं शैत्यं महत्त्वं गुरुतरकठिनत्वातिशीतातिकडूं--।
स्नेहक्लेदप्रसेकारुचिबमथुशिरोगौरवात्यंतनिद्राः ॥
मंदाग्नित्वाविपाकौ मुखगतलवणस्वादुता सुप्ततादिः ॥
श्लेष्मव्याधिस्वरूपाण्यविकलमधिगम्याचरेदौषधानि ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

श्लेष्म नाशक गण ।

सक्षारैरुष्णवर्गैर्लघुतरविशदैरल्पमात्रान्नपानैः ।
कौलस्थैर्मुद्गयूषैरतिकटुककलायाढकीनां रसैर्वा ॥