189

भावार्थः--The Hindi commentary was not digitized.

लघुताप्रदर्शन.

द्रव्याण्येतान्यचिंत्यान्यगणितरसवीर्यप्रपाकप्रभावा--।
न्युक्तान्यन्यान्यनुक्तान्यधिकतरगुणान्यद्भुतान्यल्पशास्त्रे ॥
वक्तुं शक्नोति नान्यस्त्रिभुवनभवनाभ्यंतरानेकवस्तु--।
ग्राहिज्ञानैकचक्षुस्सकलविदपि मोमुह्यते मद्विधःकिम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सासूत्र ।

दोषान्विचार्य गुणदोषविशेषयुक्त्या । सद्भेषजान्यपि महामयलक्षणानि ॥
योग्यौषधैः प्रतिविधाय भिषग्विपश्चि--द्रोगान् जयत्यखिलरोगबलप्रमाथी ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

आषधि का यथालाभ प्रयोग ।

सर्वैरेतैः प्रोक्तसद्भेषजैर्वाप्यर्धैरर्धैर्वा यथालाभतो वा ।
योग्यैर्योगैः प्रत्यनीकैः प्रयोगैः रोगाश्शाम्यंत्यद्वितीयैरमोघैः ॥ २६ ॥