214
तस्मिन्गुडस्यार्धतुलां निधाय । सारोदकस्य कुडबाष्टकमिश्रितं तत् ॥
सम्यक्पिधायास्य घटस्य वक्त्रं । संस्थापयेदधिकधान्ययवोरुकूपे ॥ ११२ ॥
एवं समस्तानमृतप्रयोगान् । संयोजयेत्कथितमार्गत एव सर्वान् ॥
संस्कार एषोऽभिहितस्समस्तः । सर्वौषधादारघटे विधेयम् ॥ ११३ ॥
उध्दृत्य तत्सप्तदिनाच्च पक्षात् । मासादतः प्रचुरगंधरसं सवीर्यं ।
तद्भक्षयेदाग्निबलानुरूपम् । कुष्ठप्रमेहोदरनाशहेतुम् ॥ ११४ ॥

भावार्थः--The Hindi commentary was not digitized.

आरग्वधारुष्करमुष्कनिंब । रंभार्कतालतिलमंजरिकासुभस्म ॥
द्रोणं चतुर्द्रोणजलैर्विपक्वं । रक्तं रसं स्रवति शुद्धपटाबवद्धम् ॥ ११५ ॥
अत्र क्षिपेदाढकसप्रमाणं । शुद्धं गुडं त्रिकटुकं त्रिफलाविडंगम् ॥
{??} । चूर्णं लवंगलबलीबहुलाप्रगाढम् ॥ ११६ ॥