215
कुंभे निधायोक्तबहुप्रकार । धान्ये स्थितं मासपरिप्रमाणम् ॥
तद्भक्षयेदक्षयरोगराजान् । संक्षेपतः क्षपयितुं मनसाभिवांछन् ॥ ११७ ॥

भावार्थः--The Hindi commentary was not digitized.

ग्वदिर चूर्ण ।

सारद्रुमाणामपि सारचूर्णं । सारद्रुमस्वरसभावितशोषितं तत् ॥
सारांघ्रिपक्वाथयुतं प्रपीतं । सारौषधं भवति सारमहामयघ्नम् ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.

तीक्ष्ण लोह भस्भ.

तीक्ष्णस्य लोहस्य तनूनि पात्रा--। ण्यालिप्य पंचलवणाम्लकृतोरुकल्कैः ॥
दग्ध्वा पुटेनैव सुगोमयाग्नौ । निर्वाप्य सारतरुसत्त्रिफलारसेन ॥ ११९ ॥
एवं पुनः पूर्ववदेव दग्ध्वा । निर्वाप्य तद्वदिहषोडशवारमात्रम् ॥
पश्चात्पुनः खादिरकाष्टदग्धं । शांतं विचूर्ण्य पटनिसृतमत्र कृत्वा ॥ १२० ॥
तच्चूर्णमाज्यान्वितर्शकराक्तं । ज्ञात्वा बलं सततमेव निषेव्यमाणम् ॥
कुष्टप्लिहार्शादिकपाण्डुरोगान् । हत्वा वयोबलशरीरसुखं करोति ॥ १२१ ॥

भावार्थः--The Hindi commentary was not digitized.