217

खदिरप्रयोग ।

सर्वात्मना खदिरसारकषायमेकं । पीत्वाभिषिक्ततनुरप्यतिकुष्ठजुष्टः ॥
नीचैर्नखैस्तनुरुहैस्सुविशुद्धगात्रः । सद्यः सुखी भवति शांतमहामयार्तिः ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ उदररोगाधिकारः ।

उदररोगनिदान ।

नृणां समस्तैः पृथगेव दोषै--। र्यकृत्प्लिहाभ्यामुदकोपयोगात् ॥
विषप्रयोगांत्रनिरोधशल्या--। द्भवंति घोराणि महोदराणि ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.

वातोदर लक्षण ।

श्रपथ्यमिथ्याचरणाहृतिभ्यां । प्रदुष्टवातोऽन्नरसान् प्रदूष्य ॥
{??}शूलमाध्मानमनेकतोदं । महोदरं कृष्णशिरां करोति ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तोदर लक्षण ।

सदाहतृष्णाज्वरशोषयुक्तम् । सपीत{??}ण्मूत्रशिराप्रतानम् ॥
महोदरं शीघ्रविसारि साक्षात् । करोति पित्तं स्वनिमित्तदुष्टम् ॥ १२९ ॥