यकृत्प्लीहोदर चिकित्सा ।

यकृत्प्लिहोद्भूतमहोदरे शिरां । स्वदाक्षिणे वामकरे च मध्यमे ॥
यथाक्रमात्तां व्यधयेद्विमर्दयन् । प्लिहां करेणातिदधिप्रभोजिनम् ॥ १६६ ॥

भावार्थः--The Hindi commentary was not digitized.

सुधांशुतीक्ष्णाम्बररोपमप्रभां । सुखोष्णगोक्षीरविमिश्रितां पिबेत् ॥
यकृत्प्लिहाध्मातमहोदरो नरः । क्रमात्सुखं प्राप्तुमना मनोहरम् ॥ १६७ ॥

भावार्थः--The Hindi commentary was not digitized.