षट्पलसर्पि ।

सपिप्पली नागरहस्तिपिप्पली । शटीसमुद्राग्नियवोद्भवैः शुभैः ॥
कषायकल्कैः पलषट्कसंमितै--। रिदं घृतं प्रस्थसमांशगोमयम् ॥ १७० ॥
227
लिहेदिदं षट्पलसर्पिरुत्तमं । यकृत्प्लिहाध्मानमहोदरेष्वपि ॥
सकासगुल्मोर्द्ध्वमरुत्प्रपीडिता--। त्युदासमुद्वर्तनिवारणं परम् ॥ १७१ ॥

भावार्थः--The Hindi commentary was not digitized.