196

भावार्थः--The Hindi commentary was not digitized.

प्रमेहका असाध्य लक्षण ।

वसाघृतक्षौद्रनिभं स्त्रवंति ये । मदांधगंधेभजलप्रवाहवत् ॥
सृजंति ये मूत्रमजस्रमाविलं । समन्विता ये कथितैरुपद्रवैः ॥ २५ ॥
गुदांसहृत्पृष्ठशिरोगलोदरस्वमर्मजाभिः पिटकाभिरन्विताः ॥
पिबंति ये स्वप्नगतास्तरंति ये नदीसमुद्रादिषु तोयमायतम् ॥ २६ ॥
यथोक्तदोषानुगतैरुपद्रवै--स्समन्विता ये मधुवत्क्षरंत्यपि ॥
विशीर्णगात्रा मनुजाः प्रमेहिणोऽचिरान्म्रियंते न च तानुपाचरेत् ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहचिकित्सा ।

सदा त्रिदोषाकृतिलक्षणेक्षित--प्रमेहरूपाण्यधिगम्य यत्नतः ॥
भिषक्तदुद्रेकवशादशेषवित् क्रियां विदध्यादखिलप्रमेहिणां ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्षणबृंहण चिकित्सा ।

कृशस्तथा स्थूल इति प्रमेहिणौ । स्वजन्मतोऽपथ्यनिमित्ततोऽपि यौ ॥
तयोः कृशस्याधिकपुष्टिवर्धनैः । क्रियां प्रकुर्यादपरस्य कर्षणैः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.