197

प्रमेहियोंके लिये पथ्यापथ्य ।

सुरासवारिष्टपयोघृताम्लिका । प्रभूतमिष्टान्नदधीक्षुभक्षणम् ।
विवर्जयेन्मांसमपि प्रमेहवान् । विरूक्षणाहारपरो नरो भवेत् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहीके वमन विरेचन ।

तिलातसीसर्षपतैलभावितं--स्वदेहमेहातुरमाशु वामयेत् ।
सनिंबतोयैर्मदनोद्भवैः फलै--र्विरेचयेच्चापि विरेचनौषधैः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

निरूहबस्ति प्रयोग ।

विरेचनानंतरमेव तं नरं । निरूहयेच्चापि निरूहणौषधैः ।
गवांबुयुक्तैस्तिलतैलमिश्रितै--स्ततो विशुद्धांगममीभिराचरेत् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रमेहीकेलिये भोज्यपदार्थ ।

प्रियंगुकोद्दालकशालिपिष्टकैः । सकंगुगोधूमयवान्नभोजनैः ।
कषायतिक्तैः कटुकैस्सहाढकी--कलायमुद्गैरपि भोजयेद्भिषक् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

आमलकारिष्ट ।

निशां विचूर्ण्यामलकांबुमिश्रितां । घटे निषिक्य प्रपिधाय संस्कृते ॥
सधान्यकूपे निहितं यथाबलं निहंति मेहान् क्रमतो निषेवितम् ॥ ३४ ॥