256

भावार्थः--The Hindi commentary was not digitized.

अर्शघ्नयोगद्वय ।

प्रातरेवमभयाग्निकचूर्णं--सैंधवेन सह कांजिकया गो--।
मूत्रसिद्धमसकृत्प्रपिबेद्वा । तत्र साधितरसं खरभूषात् ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.

चित्रकादि चूर्ण ।

चित्रकान्वितभरुष्करबीजैः । क्षुण्णसत्तिलगुडं सततं तत् ॥
भक्षयन् जयति सर्वजदुर्ना--। मान्युपद्रवयुतान्यपि मर्त्यः ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्शनाशकतक्र ।

श्लक्ष्णपिष्टवरचित्रकलिप्ता--। भ्यन्तराभिनवनिर्मलकुंभे ॥
न्यस्ततक्रमुपयुज्य समस्ता--। न्यर्शसां शमयतीह कुलानि ॥ १२० ॥

भावार्थः--The Hindi commentary was not digitized.

सूरण मोदक ।

सत्क्रमान्मरिचनागरविख्या--। ताग्निकप्रकटसूरणकन्दान् ॥
उत्तरोत्तरकृतद्विगुणांशान् । मर्दितान् समगुडेन विचूर्णान् ॥ १२१ ॥
मोदकान्विदितनिष्परिहारान् । भक्षयन्नधिकमृष्टसुगंधान् ॥
दुर्जयानपि जयत्यतिगर्भा--। दर्शसां सकलरोगसमूहान् ॥ १२२ ॥