267

कफाश्मरीनाशकयोग ।

फलत्रिकत्र्यूषणशिग्रुचित्रकै--। र्विडंगकुष्ठैर्वरणैस्तुटित्रयैः ?
बिडोत्थसौवर्चलसैन्धवान्वितैः । कषायकल्कीकृतचारुभेषजैः ॥ २७ ॥
विपक्वतैलाज्यपयोन्नभक्षणैः । कषायसक्षारयुतैस्सपानकैः ॥
सुपिष्टकल्कैः कफजाश्मरी सदा । तपोगुणैस्संसृतिवद्विनश्यति ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

पाटलीकादिक्वाथ.

सपाटलीकैः कपिचूतकांघ्रिभिः । कृतः कषायोश्मजतुप्रवापितः ॥
सशर्करः शर्करया सहाश्मरीं । भिन्नत्ति साक्षात्सहसा निषेवितः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

कपोतवंकादि क्वाथ ।

कपोतवंकैः सहशाकजैः फलैः । सविष्णुकांतैः कदलांबुजाह्वयैः ॥
श्रृतं पयष्टंकणचूर्णमिश्रितं । सशर्करेंदुं प्रपिबेत्सशर्करी ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.