272

भावार्थः--The Hindi commentary was not digitized.

उन्मार्गि भगंदर लक्षण ।

सशल्यमज्ञानतयान्नमाहृतम् । क्षिणोति तीक्ष्णं गुदमन्यथोगदं ॥
विमार्गमुन्मार्गविशेषसंचितं । भगंदरं तत्कुरुते भयंकरम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदर की व्युत्पत्ति व साध्यासाध्य विचार ।

भगान्विते बस्ति गुदे विदारणात् । भगंदराणीति वदंति तद्विदः ॥
स्वभावतः कृच्छतराणि तेषुत--। द्विवर्जयेत्सर्वजशल्यसंभवम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

भगंदर चिकित्सा ।

भगंदरोद्यत्पिटिकाप्रपीडितं । महोपवासैः वमनैर्विरेचनैः ॥
उपाचरेदाशुविशेषशोणित--। प्रमोक्षसंस्वेदनलेपबंधैनः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा उपेक्षासे हानि ।

उपेक्षितान्युत्तरकालमुद्धतै--। स्समस्तदोषैः परिपाकमेत्यतः ॥
सृजंति रेतोमलमूत्रमारुत--। क्रिमीनपि स्वव्रणवक्त्रतस्सदा ॥ ५१ ॥