284
सकलतनुगतो वा मध्यदेहेऽर्धदेहे ।
श्वयथुरतिसुकष्टः क्लिष्टशुष्केतरांगः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

विद्रधि ग्रंथिपिटकालक्षण व चिकित्सा ।

श्वयथुरितिविशालो विद्रधिः कुंभरूपो ।
मुखरहिततया ते ग्रंथयः संप्रदिष्टाः ॥
मुखयुतपिटकाख्याः शोफकालेऽनुरूपै--।
रुपनहनविशेषैः साधनैः साधयेत्तान् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

उपदंशका असाध्य लक्षण ।

ज्वरयुतपरिदाहश्वासतृष्णातिसार--।
प्रकटबलविहीनारोचकोद्गारयुक्तः ॥
यमसदनमवाप्नोत्याशु शून्यांगयष्टिः ।
यममसकृदनूनं द्रष्टुकामो मनुष्यः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतोद्भव उपदंश चिकित्सा ।

निशितविषमदन्तोद्धट्टनात् मेद्रजात--।
क्षतयुतमुपदंशात्यंतशोफं यथावत् ॥
शिशिरघृतपयोभिः साधयेदाशु धीमान् ।
अतिहिमबहुभैषज्यैरपीह प्रलिंपेत् ॥ ६ ॥