288

अपचीलक्षण ।

हनुगलनयनाशेषास्थिंसधि प्रदेशे--।
ष्वधिकमुपचितं यन्मदे एवाल्पशोफम् ॥
कठिनमिह विधत्ते वृत्तमत्यायतं वा--।
प्युपचयनविशेषात्प्राहुरत्रापचीं ताम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

अपचीका विशेष लक्षण ।

कतिचिदिह विभिन्नस्रावमेवं स्रवन्ती ।
प्रशमनमिह साक्षात् केचिदेवाप्नुवंति ॥
सततमभिनवास्ते ग्नंथयोऽन्ये भवंति ।
विविधविषमरूपास्तेषु तैलं यथोक्तं ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

अपची चिकित्सा ।

वमनमपिच तीक्ष्णं नस्यमत्रापचीनां ।
विधिवदिह विधेयं सद्विरेकश्च पश्चात् ॥
विविधविषमनाडीषूक्तमन्यच्च तच्च ।
प्रतिदिनमिह योज्यं श्लेष्मभेदप्रशांत्यै ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.