296

अकथित रोगों की परीक्षा ।

न भवति खलु रोगो दोषजालैर्विना यत् ।
तदकथितमपि प्राधान्यतस्तद्गुणानाम् ॥
उपशमनविधानैस्साधयेत्साध्यमेवं ।
पुनरपि कथनं स्यात्पिष्टसंपेषणार्थम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

अजगल्लीलक्षण ।

परिणतफलरूपा तीक्ष्णपत्रस्य साक्षात् ।
कफपवनकृतेयं तोयपूर्णाल्परुक् च ॥
जलमरुदुपयोगाब्दुब्दुदस्येव जन्म ।
त्वचि भवति शिशूनां नामतस्साजगल्ली ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

अजगल्ली चिकित्सा.

अभिनवजनितां तां ग्राहयेद्वा जलौका--।
मुपगतपरिपाकां संविदार्याशु धीमान् ॥
व्रणविहितविधानं योजयेद्योजनीयम् ।
कफपवननिहंतृद्रव्यवर्गप्रयोगैः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.