320

दंतहर्षलक्षण.

यदा च दंता न सहंति संततं । विचर्वितुं सर्वमिहोष्णशीतजं ॥
स दंतहर्षो भवतीह नामतः । सवातजः स्पर्शविहीनदोषजः ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

भंजनक लक्षण.

मुखं सवक्रं भवतीह देहिनां । सदंतभंगश्च महातिनिष्ठुरः ॥
त्रिदोषजो भंजनको महागदः । स साधनीयस्त्रिविधौषधक्रमैः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतशर्करा, कापालिका लक्षण.

घनं मलं दंतघुणावहं भृशं । सदैव दंताश्रितशर्करा मता ।
कपालवद्यं स्फुटितं स्वयं मलं । कपालिकाख्यं दशनक्षयावहम् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

श्यामदंतक हनुमोक्ष लक्षण.

सरक्तपित्तेन विदग्धदंतको । भवेत्सदा श्यामविशेषसंज्ञितः ॥
तथैव केनापि विसंगते हनौ । हनुप्रमोक्षोऽर्दितलक्षणो गदः ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.