338

पंचमंडल षट् संधि.

स्वपक्ष्मवर्त्मद्वयशुक्लकृष्णस--। द्विशेषदृष्ट्याश्रयमण्डलानि तत् ॥
द्वयोश्च संधावपि संधयस्ततः । कमीनिकापांगगतौ तथापरौ ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.

षट् पटल ।

इमे च साक्षात्पटले स्ववर्त्मनि । तथैव चत्वार्यपि चक्षुषः पुटम् ॥
भवेच्च घोरं तिमिरं च येषु तत् । विशेषतस्सर्वगतामयान्ब्रुवे ॥ १२९ ॥

भावार्थः--The Hindi commentary was not digitized.

अभिष्यंदवर्णनप्रतिज्ञा ।

समस्तनेत्रामयकारणाश्रयान् । ब्रवीम्यभिष्यंदविशेषनामकान् ॥
विचार्य तत्पूर्णमुपक्रमं च त--। द्विशेषदोषप्रभावाखिलामयान् ॥ १३० ॥

भावार्थः--The Hindi commentary was not digitized.

वाताभिष्यंद लक्षण.

सतोदभेदप्रचुरातिवेदना । विशेषपारुष्यसरोमहर्षणम् ॥
हिमाश्रुपातोऽशिशिराभिनंदनं । भवत्यभिष्यंद तदेव मारुतम् ॥ १३१ ॥

भावार्थः--The Hindi commentary was not digitized.

47
  1. व्यपोह्य इति पाठांतरं ॥