310

भावार्थः--The Hindi commentary was not digitized.

अथ कर्णरोगाधिकारः ।

कर्णशूल कर्णनादलक्षण.

अथानिलः कर्णगतोऽन्यथा चरन् । करोति कर्णाधिकशूलमुद्धतम् ॥
स एव शद्वाभिवहास्सिराश्रितः । प्रणादसंज्ञः कुरुतेऽन्यथा ध्वनिम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

बधिर्यकर्ण व क्षोद लक्षण.

स एव वातः कफसंयुतो नृणां । करोति बाधिर्यमिहातिदुःखदम् ॥
विशेषतः शद्बपथे व्यवस्थितो । तथा तितत्क्षोद समुद्रघोषणम् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णस्राव लक्षण.

जलप्रपाताच्छिरसोऽभिघाततः । प्रपाकतस्तत्पिटकादिविद्रधेः ॥
अजस्रमास्रावमिहास्रवत्यलं । स कर्णसंस्राव इति स्मृतो बुधैः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतिकर्ण कृमिकर्ण लक्षण.

सपूतिपूयः श्रनणात्स्रवेद्यदा । स पूतिकर्णो भबतीह देहिनम् ॥
भवंति यत्र क्रिमयोऽतिदारुणाः । स एव साक्षात्क्रिमिकर्णको भवेत् ॥ १४ ॥