347

भावार्थः--The Hindi commentary was not digitized.

अन्यतो वात लक्षण.

विलोचनस्थो भ्रुवि संचितोऽनिलः । शिरोवहां कर्णहनुप्रभेदिनीं ।
करोति मन्यास्वपि तीव्रवेदनां । तमन्यतो वातमुशन्ति संततम् ॥ १६५ ॥

भावार्थः--The Hindi commentary was not digitized.

आम्लाध्युषित लक्षण.

विदाहिनाम्लेन निषेवितेन त--। द्विपच्यते लोचनमेव सर्वतः ॥
सलोहितं शोफयुतं विदाहव--। द्भवेत्तदाम्लाध्युषितस्तु रक्ततः ॥ १६६ ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोत्पात लक्षण.

यदक्षिराज्यो हि भवंति लोहिताः । सवेदना वाष्यथवा विवेदनाः ॥
मुहुर्विसृज्यन्त्यसृजः प्रकोपतो । भवेच्छिरोत्पात इतीरितो गदः ॥ १६७ ॥

भावार्थः--The Hindi commentary was not digitized.

शिराप्रहर्ष लक्षण.

यदा शिरोत्पात उपेक्षितो नृणां । शिराप्रहर्षो भवतीह नामतः ॥
ततः स्रवत्यच्छमजस्रमास्रबो । नरो न शक्नोत्यभिलक्षितुं क्षणम् ॥ १६८ ॥