357

अजक लक्षण.

वराटपृष्ठप्रतिमोऽतितोदनः । सरक्तवर्णो रुधिरोपमद्रवः ॥
स कृष्णदेशं प्रविदार्य वर्द्धते । स चाजकाख्योऽक्षिभयंकरो गदः ॥ २०७ ॥

भावार्थः--The Hindi commentary was not digitized.

कृष्णगतरोगोंके उपसंहार.

इमे च चत्वार उदीरिता गदाः । स्वदोषलक्षा निजकृष्णमण्डले ।
अतःपरं दृष्टिगतामयान् ब्रुवे--। विशेषनामाकृतिलक्षणेक्षितान् ॥ २०८ ॥

भावार्थः--The Hindi commentary was not digitized.

दृष्टि लक्षण.

स्वकर्मणामौपशमप्रदेशजां । मसूरमात्रामतिशीतसाधनीं ॥
प्रयत्नरक्ष्यामतिशीघ्रनाशिनीम् । वदंति दृष्टिं विदिंताखिलागदाः ॥ २०९ ॥

भावार्थः--The Hindi commentary was not digitized.

दृष्टिगतरोगवर्णनप्रतिज्ञा.

दृगाश्रयान् दोषकृतामयान् ब्रुवे । द्विषट्प्रकारा{??} {??}लप्रभेदनान् ॥
यथाक्रमान्नामविशेषलक्षण--। प्रधानसाध्यादिविचारसत्क्रियाम् ॥ २१० ॥
51 52
  1. सभाजकाख्यो इति पाठांतरं ।

  2. लक्षण ।