361

भावार्थः--The Hindi commentary was not digitized.

कफविदग्धदृष्टि लक्षण.

तथैव स श्लेष्मविदग्धदृष्टिर--। प्यतीव शुक्लान्स्वयमग्रतः स्थितान् ॥
शशांकशंखस्पटिकामलद्युतीन् । प्रपश्यति स्थावरजंगमान् भृशं ॥ २२२ ॥

भावार्थः--The Hindi commentary was not digitized.

धूमदर्शी लक्षण.

शिरोऽभितोष्मश्रमशोकवेदना । प्रपीडिता दृष्टिरिहाखिलान् भुवि ।
प्रपश्यतीह प्रबलातिधूमवान् । स धूमदर्शीति वदंति तं बुधाः ॥ २२३ ॥

भावार्थः--The Hindi commentary was not digitized.

हृस्वजाति लक्षण.

भवेद्यदाह्रस्वयुता विजातिको । गदो नृणां दृष्टिगतः सतेन ते ॥
भृशं प्रपश्यंति पुरो व्यवस्थितान् । तदोन्नतान्ह्रस्वनिभान्सदोषतः ॥ २२४ ॥

भावार्थः--The Hindi commentary was not digitized.

नकुलांध्य लक्षण.

यदा भुवि द्योतितदृष्टिरुज्वला । नरस्य रात्रौ नकुलस्य दृष्टिवत् ।
दिवा विचित्राणि स पश्यति ध्रुवं । भवेद्विकारो नकुलांध्यनामकम् ॥ २२५ ॥

अर्थ--The Hindi commentary was not digitized.