366
प्रस्तादिप्रथितमथार्म पाकयुग्मः ।
श्यावाख्यं बहलसुकर्दमार्शसाम् ॥
यद्वार्त्मान्यद्विससहितं च शर्कराढ्यं ।
शुक्लार्शोऽर्बुदमलस स्वपूयपूर्वः ॥ २४२ ॥
उत्संगिन्यथ पिटका च कुंभपूर्वा ।
साध्यास्तेषु विदितसर्वदोषजेषु ॥
बाह्यौ यौ प्रकटनिमित्तजानिमित्तजौ ।
साध्यौ वा भवत्यसाध्यलक्षणम् वा ॥ २४३ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्ररोगोंका उपसंहार.

षट्सप्ततिः सकलनेत्रगदान्विकारान् ।
ज्ञात्वात्र साध्यमथ याप्यमसाध्यमित्थं ॥
छेद्यादिभिः प्रबलभेषजसंविधानैः ।
संयोजयेदुपशमक्रियया च सम्यक् ॥ २४४ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा विभाग.

छेद्या भवंति दश चैक इहाक्षिरोगा ।
भेद्याश्च पंचनव चान्यगदास्तु लेख्याः ॥
व्यध्यास्तथैव दशपंच च शस्त्रवर्ज्या--।
स्ते द्वादश प्रकटिताः खलु सप्त याप्याः ॥ २४५ ॥
पंचादशैव भिषजा परिवर्जनीयाः ।
बाह्यौ कदाचिदिह याप्यतरावसाध्यौ ॥