368

व्यघ्य रोगोंके नाम.

यौ वा शिरानिगदितावथपाकसंज्ञा--।
वप्यन्यतश्च पचनोऽलस एव पूयः ।
वातादिपर्यय समंथविशेषिताभि--।
ष्यंदाश्च साधुभिरिहाधिकृतास्तु वेध्याः ॥ २४९ ॥

भावार्थः--The Hindi commentary was not digitized.

शस्त्र कर्मसे वर्जित नेत्ररोगोंके नाम.

पिष्टार्जुनेयमपि धूमनिदर्शिशुक्ति--।
मक्लिन्नवर्त्मकफपित्तविदग्धदृष्टि ॥
शुष्काक्षिपाकमपि शुक्लमथाम्लकादि ।
प्रक्लिन्नवर्त्मकफसग्रथितं च रोगः ॥ २५० ॥
तान् शस्त्रपातमपहृत्य विशेषितैश्च ।
सद्भेषजैरुपचरेद्विधिना विधिज्ञः ॥
आगंतुजावथ चयाविह दृष्टिरोगौ ।
तावप्यशस्त्रविधिना समुपक्रमेत ॥ २५१ ॥

भावार्थः--The Hindi commentary was not digitized.

याप्य रोगोंके नाम व असाध्य नेत्ररोगोंके नाम.

काचाः षडप्यधिकपक्ष्मगतप्रकोपाः ।
याप्या भवंत्यभिहिताः पुनरप्यसाध्याः ॥
तान्वर्जयेदनिलशोणितसन्निपातात् ।
प्रत्येकशोपि चतुरश्चतुरश्च जातान् ॥ २५२ ॥
श्लेष्मोत्थमेकमपि पित्तकृतौ तथा द्वौ ।
द्वावेव बाह्यजनितौ च विववर्जयेत्तान् ॥