कफजलिंग नाशमें शस्त्रकर्म.

तल्लिंगनाशमपि तीव्रकफप्रजातं ।
ज्ञात्वा विमृद्य विलयं सहसा व्रजेत्तम् ॥
स्वां नासिकामभिनिरीक्षत एव पुंसः ।
शुक्लप्रदेशसुषिरं सुविचार्य यत्नात् ॥ २७९ ॥
छिद्रे स्वदैवकृतलक्षणलक्षितेऽस्मिन् ।
विध्येत् क्रमक्रमत एव शनैश्शनैश्च ॥
सुश्लक्ष्णताम्रयववक्त्रशलाकया ती--।
व्रोत्सिंहनादमनुधुक्कफमुल्लिखेत्तम् ॥ २८० ॥
दृष्टे पुरःस्थितसमस्तपदार्थजाते ।
तामाहरेत्क्रमत एव भिषक् शलाकां ॥
उत्तानतश्शयनमस्य हितं सदैव ।
नस्यं कफघ्नकटुरूक्षवरौषधैश्च ॥ २८१ ॥

भावार्थः--The Hindi commentary was not digitized.

378
छागांबुना कतकनक्तफलद्वयं वा ।
पिष्टं तदिष्टमिह दृष्टिकरांजनं स्यात् ॥
रक्ताख्यचंदनमपि क्रमतो निघृष्टं ।
सौवीरवारिघृततैलफलाम्लतक्रैः ॥ २८२ ॥

भावार्थः--The Hindi commentary was not digitized.