316

आगंतुक्षवथुलक्षण.

सुतीक्ष्णचूर्णान्यतिजिघ्रतोपि वा । निरीक्षणादुष्णकरस्य मण्डलम् ।
स्वनासिकांतस्तरुणास्थिघट्टनात् । प्रजायमानः क्षवथुर्विनश्यति ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

महाभ्रंशन लक्षण व चिकित्सा.

ततो महाभ्रंशननामरोगतः । कफोतिसांद्रो लवणः समूर्धतः ॥
निरीक्ष्य तत्संशिरसोवपीडनै--। र्विशोधनैरक्रममर्मसंचितम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

नासाप्रतिनाह लक्षण व चिकित्सा.

उदानवातोतिकफप्रकोपत--। स्सदैव नासाविवरं वृणोति यत् ॥
तमाशुनासाप्रतिनाहसंयुतैः । सुधूमनस्योत्तरबस्तिभिर्जयेत् ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

नासापरिस्राव लक्षण व चिकित्सा.

अहर्निशं यत्कफदोषकोपतः । स्रवत्यजस्रं सलिलं स्वनासिकाम् ॥
ततः परिस्राविविकारिमूर्जितां । जयेत्कफध्नौषधचूर्णपीडनैः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

नासापरिशोष लक्षण व चिकित्सा.

कफोतिशुष्कोधिकपित्तमारुतैः । विशोषयत्यात्मनिवासनासिकां ॥
ततोत्र नासापरिशोषसंज्ञितं । जयेत्सदा क्षीरसमुत्थसर्पिषा ॥ ३९ ॥