318

अथ मुखरोगाधिकारः

मुखरोगोंके स्थान.

मुखे विकारायतनानि सप्त तत् । यथा तथोष्ठौ दशना सजिह्वया ॥
स्वदंतमूलानि गलः सतालुकः । प्रणीतसर्वाणि च तेषु दोषजाः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

अष्टविध ओष्ठ रोग.

पृथक् समस्तैरिह दोषसंचितै--। रसृग्विमिश्रैरभिघाततोपि वा ॥
समांसमेदोभिरिहाष्टभेदतः । सदोषकोपात्प्रभवंति देहिनां ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

वातपित्त, कफज, ओष्ठ रोगोंके लक्षण.

सवेदनौ रूक्षतरातिनिष्ठुरौ । यदैवमोष्ठौ भवतस्तु वातजौ ॥
सदाहपाकौ स्फुटितौ च पित्तजौ गुरू महांतौ कफतोतिपिच्छिलौ ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपात रक्तमांस मेदोत्पन्न ओष्ठरोगोंके लक्षण.

समस्तलिंगाविह सन्निपातजा--। वसृक्प्रभूतौ स्रवतोऽतिशोणितौ ॥
स्थिरावतिस्थूलतरौ च मांसजौ । वसाघृतक्षौद्रनिभौ च मेदसा ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.