396

त्रिदोषज, रक्तज स्वरभेद लक्षण.

प्रोक्ताखिलप्रकटदोषकृतस्त्रिदोष--।
लिंगस्वरो भवति वर्जयितव्य एषः ॥
कृष्णाननोष्मसहितो रुधिरात्मकः स्या--।
त्तं चाप्यसाध्यमृषयस्स्वरभेदमाहुः ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

मेदजस्वरभेदलक्षण ।

मेदोभिभूतगलतालुयुतो मनुष्यः ।
कृच्छाच्छनैर्वदति गद्गदगाढवाक्यं ॥
अव्यक्तवर्णमत+एव यथा प्रयत्ना--।
न्मेदःक्षयाद्भवति सुस्वरता नरस्य ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

स्वरभेदचिकित्सा.

सर्वान्स्वरातुरनरानभिवीक्ष्य साक्षात् ।
स्नेहादिभिः समुचितौषधयोग्ययोगैः ॥
दोषक्रमादुपचरेदथ वात्र कास--।
श्वासप्रशांतिकरभेषजमुख्यवर्गैः ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.