401

हिक्काके पांच भेद.

कफेन सहितोतिकोपवशतो महाप्राण+इ--।
त्युदीरितमरुत्करोत्यखिलपंचहिक्कामयं ॥
अथान्नजनितां तथात्र यमिकां पुनः क्षुद्रिकां ।
महाप्रलयनामिकामधिकभूरिगंभीरिकां ॥ ७७ ॥

अर्थ--The Hindi commentary was not digitized.

अन्नजयमिका हिक्कालक्षण.

सुतीव्रकटुभोजनैर्मरुदधः स्वयं पातितः ।
तदोर्ध्वमत उत्पतन् हृदयपार्श्वपीडावहः ॥
करोत्यधिकृतान्नजां विदितनामहिक्कां पुन--।
श्चिरेण यमिकां च वेगयुगलैः शिरः कंपयन् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुद्रिकाहिक्का लक्षण.

चिरेण बहुकालतो विदितमंदवेगैः क्रम--।
क्रमेण परिवर्द्धते प्रकटजत्रुमूलादतः ॥
नृणामनुगतात्मनामसहितात्र हिक्का स्वयं ।
भवेदियमिह प्रतीतनिजलक्षणैः क्षुद्रिका ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.