383

क्षुद्रतमकलक्षण.

क्षुद्रको भवति कर्मणि जातः । तन्निवृत्तिरपि तस्य निवृत्तौ ॥
घोषवान् स कफकाससमेतो । दुर्बलस्य तमकोऽन्नविरोधी ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

छिन्न व महाश्वास लक्षण.

छिन्न इत्युदरपूरणयुक्तः । सोष्णबस्तिरखिलांगरुगुग्रः ॥
स्तब्धदृष्टिरिह शुष्कगलोऽति--। ध्वानशूलसहितस्तु महान् स्यात् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

ऊर्ध्व श्वासलक्षण.

मर्मपीडितसमुद्भवदुःखो । बाढमुच्छ्वसिति नष्टनिनादः ॥
ऊर्ध्वदृष्टिरत एव महोर्ध्व--। श्वास इत्यभिहितो जिननाथैः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य विचार.

क्षुद्रकस्तमक एव च साध्यो । दुर्बलस्य तमकोऽप्यतिकृच्छ्रः ॥
वर्जिता मुनिगणैरवशिष्टाः । श्वासिनामुपरि चारुचिकित्सा ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

श्वासचिकित्सा.

छर्दनं प्रतिविधाय पुरस्तात् । स्नेहबस्तिविगतां च विशुद्धिम् ॥
योजयेद्बलवतामबलानाम् । श्वासिनामुपशमौषधयोगान् ॥ ९ ॥