432
अथ पांडुरोगाधिकारः
पांडुरोग निदान.
अथ च पाण्डुमदांश्चतुरो ब्रुवे पृथगशेषविशेषितदोषजान् ।
विदितपांण्डुगुणप्रविभावितान् अपि विभिन्नगुणान्गुणमुख्यतः ॥ ९१ ॥
भावार्थः--The Hindi commentary was not digitized.
वातज पांडुरोग लक्षण.
असितमूत्रसिराननलोचनं । मलनखान्यसितानि च यस्य वै ॥
मरुदुपद्रवपीडितमातुरं । मरुदुदीरितपाण्डुगदं वदेत् ॥ ९२ ॥
भावार्थः--The Hindi commentary was not digitized.
पित्तज पांडुरोग लक्षण.
निखिलपीतयुतं निजपित्तजं धवलवर्णमपीह कफात्मजम् ।
सकलवर्णगुणत्रितयोत्थितं प्रतिवदेदथ कामल१क्षणम् ॥ ९३ ॥
भावार्थः--The Hindi commentary was not digitized.
कामलानिदान.
प्रशमितज्वरदाहनरोऽचिरादधिकमम्लमपथ्यमिहाचरेत् ॥
कुपितपित्तमतोस्य च कामला मधिकशोफयुतां कुरुते सितां ॥ ९४ ॥
-
कामिलयान्यथा इति पाठातरं ।
↩